संस्कृत-शब्दकोशः

वर्षवर वर्षा

वर्षवृद्धि

वाचस्पत्यम्

वर्षवृद्धि ||‍ पु० वर्षस्य वृद्धिरधिकता यस्मिन् । १ जन्मतिथौ २ तद्दिनकर्त्तव्ये पूजादौ च । “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया । रवेरुदयमीक्षन्ते न तत्र तिथि युग्मता” ति० त० । “तत्कृत्यं च मलमासे न कर्त्तव्यं चान्दमासीयत्वेन सावकाशत्वात् न च सौरमासीयं तथात्वे तत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः नं चेष्टापत्तिः “प्रतिसंवत्सरं चैव कर्त्तव्यश्च महोत्- सवः” ब्रह्मपु० प्रतिसंवत्सरं तद्विधानात् ति० त० रघु० । अधिकं जन्मतिथिशब्दे दृश्याम् ।


शब्दकल्पद्रुमः

वर्षवृद्धिः || स्त्री (वर्षस्य वृद्धिराधिक्यं यत्र ।)
जन्मतिथिः । इति स्मार्त्तव्याख्यादर्शनात् ॥ अथ जन्मतिथिकृत्यम् । तन्मलमासे न कर्त्तव्यं चान्द्र- मासीयत्वेन सावकाशत्वात् । न च तस्य सौर- मासीयत्वं तथात्वे तन्मासे तत्तिथेः कदाचिद- प्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः । न चेष्टापत्तिः प्रतिसंवत्सरन्तद्विधानात् । यथा ब्रह्मपुराणं गर्गश्च । “सर्व्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः । गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः ॥ स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः । प्रति संवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः ॥” स्नातैस्तिलस्नातैः । प्रजापतिर्ब्रह्मा । तथा च तत्तिथिमधिकृत्य । “तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥ मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्म्मङ्गलं तद्धेतु- तया गोरोचनादिकमपि मङ्गलं तेन धृत- गुग्गुल्वादिपाणिभिरित्यर्थः । तथा च कृत्य- चिन्तामणौ । “गुडदुग्धतिलानद्याज्जन्मग्रन्थेश्च बन्धनम् । गुग्गुलुं निम्बसिद्धार्थं दूर्व्वागोरोचनायुतम् । संपूज्य भानुविघ्नेशौ महषि प्रार्थयेदिदम् ॥ चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ! । रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा ॥ मार्कण्डेय महाभाग सप्तकल्पान्तजीवन । आयुरिल्यर्गसिद्ध्यर्थमस्माकं वरदो भव ॥” स्वनक्षत्रञ्चेति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्म- कालीननक्षत्रम् । नामकरणे तथा दर्शनात् वक्ष्य- माणब्रह्मपुराणोक्तप्रणवादिनमोऽन्तन नाम्नैव पूजाविधानाच्च । तदज्ञाने स्वनक्षत्राय नम इत्युल्लेख्यम् ॥ * ॥
पूजायामर्घ्यानन्तरं पाद्य- माह मत्स्यपुराणम् । अर्घ्यं पाद्यादिकन्तत्र मधुपर्कं प्रयोजयेत् । पाद्यानन्तरं अर्घ्यमाह नरसिंहपुराणम् । पाद्यञ्चैव तृतीयया चतुर्थ्यार्घ्य प्रदापयेत् । तृतीयया पुरुषसूक्तीयतृतीयया ऋचा । उभयक्रमदर्शनादिच्छाविकल्पः । इति श्रीदत्तः ॥ * ॥
श्रीपतिव्यवहारनिर्णये । “नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम् ॥” तथा । “द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् । मार्कण्डेयं नरो भक्त्या पूजतेत् प्रयतस्तथा ॥ ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं वलिम् । प्रह्लादञ्च हनूमन्तं विभीषणमथार्च्चयेत् ॥” रामोऽत्र परशुरामः । चिरजीविसाहचर्य्यात् । द्रौणिरश्वत्थामा ॥ * ॥
तथा, —
“स्वनक्षत्रं जन्मतिथिं प्राप्य सम्पूजयेन्नरः । षष्ठीञ्च दधिभक्तेन वर्षे वर्षे पुनः पुनः ॥” योगियाज्ञवल्क्यः । “ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्म्मसु । तद्बिष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः ॥ गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ॥” ध्यायेत् स्मरेत् । स च मन्त्रः । “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥” वामनपुराणम् । “सर्व्वमङ्गलमङ्गल्यं वरेण्यं वरदं शुभम् । नारायणं नमस्कृत्य सर्व्वकर्म्माणि कारयेत् ॥” * ॥
सङ्कल्पाकरणे निन्दामाह भविष्यपुराणम् । “सङ्कल्पेन विना राजन् ! यत्किञ्चित् कुरुते नरः । फलञ्चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत् ॥” ब्रह्मपुराणम् । “प्रणवादिसमायुक्तं नमस्कारान्तकीर्त्तितम् । स्वनामसर्व्वसत्त्वानां मन्त्र इत्यभिधीयते ॥ अनेनैव विधानेन गन्धपुष्पे निवेदयेत् । एकैकस्य प्रकुर्व्वीत यथोद्दिष्टं क्रमेण तु ॥” गन्धपुष्पमात्रं पञ्चोपचाराद्यसम्भवे । “मन्त्राच्छतगुणं प्रोक्तं भक्त्या लक्षगुणोत्तरम् । भक्तिमन्त्रसमेतन्तु कोटि कोटि गुणोत्तरम् ॥ सर्व्वत्र कर्म्मोपदेशकं दक्षिणादिभिरर्च्चयेत् । तथोपदेष्टारमपि पूजयेच्च ततो गुरुम् । न पूज्यते गुरुर्यत्र नरैस्तत्राफला क्रिया ॥” इति मत्स्यपुराणवचनात् ॥ * ॥
ततः कर्म्मानन्तरं तिलहोमस्तु पूजितदेवता- नामभिः कार्य्यः । “एकैकां देवतां राम समुद्दिश्य यथाविधि । चतुर्थ्यन्तेन धर्म्मज्ञ नाम्ना च प्रणवादिना ॥ होमद्रव्यमथैकैकं शतसं ख्यन्तु होमयेत् ॥” इति विष्णुधर्म्मोत्तरदर्शनात् ॥ एवं होमे स्वाहान्तता च मन्त्रस्य । “स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेव- ताम् ॥” इति स्मृतेः ॥ अशक्तौ तु देवीपुराणम् । “होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते ॥” * ॥
स्कान्दे । “खण्डनं नखकेशानां मैथुनाध्वानमेव च । आमिषं कलहं हिंसां वर्षवृद्धौ विवर्ज्जयेत् ॥” अध्वानं अध्वगमनम् । कलहमित्यत्र सङ्गर- मिति क्वचित् पाठः । सङ्गरं युद्धम् । वर्षवृद्धौ जन्मदिने ॥ * ॥
वृद्धमनुः । “मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा । अस्पृश्यस्पर्शने चैव न स्नायादुष्टवारिणा ॥” जन्मनि पुत्त्रजन्मनि । ज्योतिषे । “स्नात्वा जन्मदिने स्त्रियं परिहरन् प्राप्नोत्य- भीष्टां श्रियं मत्स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते । शक्तून् खादति यश्च तस्य रिपवो नाशं प्रयान्ति ध्रुवं भुङ्क्ते यस्तु निरामिषं स हि भवेज्जन्मान्तरे पण्डितः ॥” * ॥
दीपिकायाम् । “जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च । भवन्ति तद्वत्सरमेव याव- न्नैरुज्यसम्मानसुखानि तस्य ॥ कृतान्तकुजयोर्व्वारे यस्य जन्मतिथिर्भवेत् । अनृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे ॥” कृतान्तकुजयोः शनिमङ्गलयोः । “तस्य सर्व्वौषधिस्नाणं ग्रहविप्रसुरार्च्चनम् । ग्रहानुदिश्य होमो वा ग्रहाणां प्रीतिमिच्छता ॥ सोरारयोर्दिने मुक्ता देयानृक्षे तु काञ्चनम् ॥ मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्बयम् । शटी चम्पकमुस्तञ्च सर्व्वौषधिगणः स्मृतः ॥” रजनीद्वयं हरिद्रा दारुहरिद्रेति । एतेषां पत्रादीनां ग्रहणम् । कषायावयवग्रहणे मत्स्य- पुराणविष्णुधर्म्मोत्तरयोस्तथा दर्शनात् । तद्- यथा, —
“एषां पत्राणि साराणि मूलानि कुसुमानि च । एवमादीनि चान्यानि कषायाख्यो गणः स्मृतः ॥” आयुर्व्वेदोक्ता परिभाषा । “अङ्गेऽप्यनुक्ते विहितन्तु मूलं भागेऽप्यनुक्ते समता विधेया ॥” तत्र क्रमः । तिलोद्बर्त्तनम् । तिलयुक्तजलेन स्नानम् । नववस्त्रपरीधानम् । गुग्गुलुनिम्ब- सिद्धार्थदूर्व्वा-गोरोचनात्मकजन्मग्रन्थिं दक्षिणे पाणौ वध्नीयात् । गुरुदेवाग्निविप्राश्च पूज- नीयाः । स्वनक्षत्रं पूजनीयम् । अत्र च । हस्ता स्वाती श्रवणा अक्लीवे । मृगशिरो नपुंसि स्यात् । पुंसि च पुनर्व्वसुपुष्यौ । मूलं त्वस्त्री स्त्रियां शेषाः । इत्यनेन लिङ्गनिर्णयः ॥ * ॥
जन्मनक्षत्रादीनां गोपनमाह विष्णुधर्म्मोत्तरे । “गोपयेज्जन्मनक्षत्रं धनसारं गृहे मलम् । प्रभोरप्यपमानञ्च तस्य दुश्चरितञ्च यत् ॥” धनसारं घनश्रेष्ठम् । मलं छिद्रम् ॥ पितरौ प्रजापतिः सूर्य्यो गणपतिर्मार्कण्डेयश्च पूजनीयः । तत्र पार्थनमन्त्रौ । “चिरजीवी यथा त्वं भो भविष्यामि तथा मुने । रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा ॥ मार्कण्डेय महाभाग सप्तकल्पान्तजीवन । आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो भव ॥” ततो व्यासपरशुरामाश्वत्थामकृपवलिप्रह्लाद- हनूमद्विभीषणाः पूजनीयाः । षष्ठ्यपि पूज- नीया । “त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च । ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्व्वन्तु तानि मे ॥” इति मत्स्यपुराणीयं रक्षार्थं पठेत् ॥ * ॥
पितृमातृपादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः । यथा, —
“कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः । देवक्याश्च महाबाहुर्बलदेवसहायवान् ॥” एवञ्च । “सहस्रन्तु पितुर्माता गौरवेणातिरिच्यते ॥” इति मनुवचने पितुरपेक्षया यत् सहसं मातु- र्गौरवमुक्तं यत् पोषणरक्षार्थम् । अतएव मनुः । “मृते भर्त्तरि पुत्त्रस्तु वाच्यो मातुररक्षिता ॥” वाच्यो गर्हणीयः ॥ * ॥
गुडदुग्धतिलपाने तु मन्त्रः । “सतिलं गुडसंमिश्रमञ्जल्यर्द्धमितं पयः । मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे ॥” अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः । जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमा- स्यन्तमासादरः ॥ * ॥
जन्मतिथेरुभयदिनलाभे तु देवीपुराणम् । “युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया । रवेरुदयमीक्ष्यन्ते न तत्र तिथियुग्मता ॥ घस्रद्वये जन्मतिथिर्यदि स्यात् पूज्या तदा जन्मभसंयुतैव । असङ्गता भेन दिनद्वयेऽपि पूज्या परा या भवतीह यत्नात् ॥” भं नक्षत्रम् । परवचनं बृहद्राजमार्त्तण्डेऽपि । पूर्ब्बाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते । “नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्म्मणः । नक्षत्रकर्म्माण्यत्रैव तिथिकर्म्म तथैव च ॥” इति बृहस्पतिवचनात् ॥ खण्डिते खण्डद्बययुक्ते येन नक्षत्रखण्डेन विहित- कालः प्राप्तः । नक्षत्रद्वैधे तु बौधायनमार्कण्डेयौ । “तन्नक्षत्रमहोरात्रं यन्मिन्नस्तं गतो रविः । यन्मिन्नुदेति सविता तन्नक्षत्रं दिनं स्मृतम् ॥” इति तिथ्यादितत्त्वम् ॥



Correction: