वाचस्पत्यम्
वर्षाभव || पु० वर्षाषु भवति भू—अच् । रक्तपुनर्नवायाम् राजनि०
शब्दकल्पद्रुमः
वर्षाभवः || पुं, (वर्षासु भवतीति । भू + अच् । वर्षासु भव उत्पत्तिर्यस्य वा ।) रक्तपुनर्नवा । इति राजनिर्घण्टः ॥ वर्षाजाते, त्रि ॥