संस्कृत-शब्दकोशः

वर्षाभव वर्षाभ्वी

वर्षाभू

वाचस्पत्यम्

वर्षाभू ||‍ पु० वर्षाषु भवति भू—क्विप् । १ भेके अमरः २ इन्द्र गोपे राजनि० ३ महीलतायाम् मेदि० ४ पुनर्नवायां ५ भेक्याञ्च स्त्री मेदि० अमरे भेक्याम् गौरा० ङीष् वर्षाभ्वीत्येव ६ वर्षाभवमात्रे त्रि० ।


शब्दकल्पद्रुमः

वर्षाभूः || पुं, (वर्षासु भवतीति । भू + क्विप् ।)
भेकः । इत्यमरः । १ । १० । २४ ॥ (अस्य पर्य्यायो यथा, —
“मण्डूकः प्लवगो भेको वर्षाभूर्दद्दुरो हरिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
इन्द्रगोपः । इति राजनिर्घण्टः ॥ भूलता । इति मेदिनी । भे, १८ ॥


शब्दकल्पद्रुमः

वर्षाभूः || स्त्री (वर्षासु भवतीति । भू + क्विप् ।)
पुनर्नवा । इति मेदिनी । भे, १८ ॥ (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये । “तिलपर्णिकावर्षाभूचित्रमूलकपोतिकालशुन- पलाण्डुकलायप्रभृतीनि ॥”)
भेकी । इति भरत- धृतरूपरत्नाकरः ॥ वर्षाभवे, त्रि ॥



Correction: