वाचस्पत्यम्
वर्षुक || त्रि० वृष—उकञ् । वर्षणशीले ।
शब्दकल्पद्रुमः
वर्षुकः || त्रि (वर्षति तच्छील इति । वृष + “लष- पतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ।” ३ । २ । १५४ । इति उकञ् ।)
वर्षणकर्त्ता । वृष- धातोर्ञुकप्रत्ययेन निष्पन्नः ॥ (यथा, भट्टौ । २ । ३७ । “जग्मुः प्रसादं द्विजमानसानि द्यौर्वर्षुका पुष्पचयं बभूव । निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिना कुमारः ॥”)