संस्कृत-शब्दकोशः

वर्षेज वर्ष्म

वर्षोपल

वाचस्पत्यम्

वर्षोपल ||‍ पु० वर्षस्य वृष्टेरुपलः प्रस्तर इव । करकेषु (शिल) अमरः ।


शब्दकल्पद्रुमः

वर्षोपलः || पुं, (वर्षाणामुपलः ।)
मेघभवशिला । करका । इत्यमरः । १ । ३ । १२ ॥ (यथा, बृहत्संहितायाम् । ८१ । २४ । “वर्षोपलवज्जातं वायुस्कन्धाच्च सप्तमाद्भ्रष्टम् । ह्रियते किल खाद्दिव्यैस्तडित्प्रभं मेघसम्भूतम् ॥”)



Correction: