शब्दकल्पद्रुमः
वर्ष्म || [न्] क्ली, (वर्षति वृष्यते वेति । वृष् + मनिन् ।)
शरीरम् । (यथा, कथासरित्सागरे । २ । ५ । “ददर्श च समीपेऽस्य पिशाचानां शतर्वृतम् । काणभूतिं पिशाचं तं वर्ष्मणा शालसन्निभम् ॥”)
प्रमाणम् । इत्यमरः । ३ । ३ । २२३ ॥ प्रमाण- मत्रोन्नतिरिति स्वामी ॥ (यथा, महाभारते । १ । ३१ । ८ । “अथापश्यदृषीन् ह्रस्वान् अङ्गुष्ठोदरवर्ष्मणः । पलालवृन्तिकामेकां वहतः संहतान् पथि ॥”)
इयत्ता । इति भरतः ॥ अतिसुन्दराकृतिः । इति मेदिनी । ने, १२८ ॥ (उन्नते स्थिरे च त्रि । यथा, ऋग्वेदे । १० । २८ । २ । “सरोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्म न्तस्थौ वरिमन्ना पृथिव्याः ।” “वर्ष्मन्शब्द उन्नतवचनः स्थिरवचनो वा ।” इति तद्भाष्ये सायणः ॥ वर्षीयान् । यथा, भाग- वते । ५ । १८ । ३० । “ॐ नमो भगवतेऽकूपाराय सर्व्वसत्त्वगुणविशे- षणाय नमोऽनुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमोऽवस्थानाय नमस्ते ॥” “वर्ष्मणे वर्षीयसे ।” इति तट्टीकायां श्रीधरः ॥)