संस्कृत-शब्दकोशः

वर्हिध्वजा वर्हिपुष्प

वर्हिन्

शब्दकल्पद्रुमः

व(व)र्ही || [न्] पुं, (वर्हमस्यास्तीति । वर्ह + इनिः ।)
मयूरः । इत्यमरः ॥ (यथा, ऋतु- संहारे । २ । ६ । “सदा मनोज्ञाम्बुदनादसोत्सुकं विभाति विस्तीर्णकलापशोभितम् । सविभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य वर्हिणाम् ॥” प्राधागर्भसम्भूतः कश्यपपुत्त्रविशेषः । यथा, महाभारते । १ । ६५ । ४७ । “सिद्धः पूर्णश्च वर्ही च पूर्णायुश्च महा- यशाः ॥”)



Correction: