शब्दकल्पद्रुमः
वर्हिपुष्पं || क्ली (वर्हि वर्हशालि पुष्प यस्य ।)
ग्रन्थिपर्णम् । इत्यमरः । २ । ४ । १३२ ॥
वाचस्पत्यम्
वर्हिःपुष्प || न० वर्हिः वह्निरिव पुष्पमस्य । ग्रन्थिपर्ण भरतः
शब्दकल्पद्रुमः
वर्हिःपुष्पं || क्ली (वर्हिर्दीप्तिस्तद्युक्तं पुष्पमस्य ।)
ग्रन्थिपर्णम् । इत्यमरटीकायां भरतः ॥