वाचस्पत्यम्
वर्हि(र्हिः)ष्ठ || न० वर्हिरिव तिष्ठति स्था—क वा विसर्गलोपः षत्वम् । ह्रीवेरे अमरः ।
शब्दकल्पद्रुमः
वर्हिष्ठं || क्ली (वर्हिषि तिष्ठतीति । स्था + कः । अम्बाम्बेति षत्वम् ।)
ह्रीवेरम् । इत्यमरः ॥ (यथा, सुश्रुते उत्तरतन्त्रे ११ अध्यायः । “स्वेदं विदध्यादथवानुलेपं वर्हिष्ठशुण्ठीसुरकाष्ठकुष्टैः ॥” त्रि, वृद्धतमः । इति सायणः । यथा, ऋग- वेदे । ३ । १३ । १ । “प्रवो देवायाग्नये वर्हिष्ठमर्च्चास्मै ॥”)
वाचस्पत्यम्
वर्हिःष्ठ is an alternate of वर्हिष्ठ. वर्हि(र्हिः)ष्ठ || न० वर्हिरिव तिष्ठति स्था—क वा विसर्गलोपः षत्वम् । ह्रीवेरे अमरः ।
शब्दकल्पद्रुमः
वर्हिःष्ठं || क्ली (बर्हिरिव तिष्ठतीति । स्था + कः ।)
वर्हिष्ठम् । ह्रीवेरम् । इत्यमरभरतौ ॥