संस्कृत-शब्दकोशः

वलय वला

वलयित

वाचस्पत्यम्

वलयित ||‍ त्रि० वलयमिव आचरितम् वलय + क्वि—क्त । वेष्टिते अमरः ।


शब्दकल्पद्रुमः

वलयितं || त्रि (वलयवत् कृतमिति । वलय + तत्करोतीति णिच् ततः क्तः । यद्बा, वलयं तदाकृतिर्जातमस्येति । वलय + इतच् ।)
वेष्टि- तम् । इत्यमरः ॥ (यथा, गीतगोविन्दे । ११ । २६ । “नीलनलिनमिव पीतपरागपटलभरवलयित- मूलम् ॥” यथा च वैरागिमङ्गले । “इन्धनमालावलयितबाहुः परधनहरणे साक्षाद्राहुः । रण्डायौवनभञ्जनवीरः कीर्त्तनपतने मल्लशरीरः ॥”)



Correction: