संस्कृत-शब्दकोशः

वलयित वलाक

वला

वाचस्पत्यम्

वला ||‍ स्त्री वल—अच् । (वेड्याला) ओषधिभेदे रायमुकुटः । २ बलाशब्दार्थे च ।


शब्दकल्पद्रुमः

वला is an alternate of बला. ब(व)ला || स्त्री (कार्य्यकारित्वेन बलमस्त्यस्याः । बल + अर्श आद्यच् ततष्टाप् ।)
क्षुपविशेषः । बाला इति वाडियाला इति भाषा । तत्पर्य्यायः । वाठ्यालकः २ । इत्यमरः । २ । ४ । १०७ ॥ समङ्गा ३ ओदनिका ४ भद्रा ५ भद्रोदनी ६ खरका- ष्ठिका ७ कल्याणिनी ८ भद्रबला ९ मोटा १० पाटी ११ बलाद्या १२ । इति राजनिर्घण्टः ॥ शीतपाकी १३ बाट्या १४ वाटी १५ विनया १६ वाट्याली १७ वाटिका १८ । इति शब्दरत्ना- वली ॥ अपि च । “वाट्यालको बाठ्यपुष्पी समांसा विलला बला । श्वेतवाडियाला इति भाषा ॥ ऋष्यप्रोक्ता त्वतिबला पीतपुष्पी महाबला । पीतवाडीयाला ।” इति रत्नमाला ॥ अस्या गुणाः । अतितिक्तत्वम् । मधुरत्वम् । पित्ताति- सारनाशित्वम् । बलवीर्य्यप्रदत्वम् । पुष्टिकफ- रोधविशोधनञ्च । इति राजनिर्घण्टः ॥ अथ बलाचतुष्टयनामादि । “बला वाट्यालिका वाट्या सैव वाट्यालकोऽपि च । महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥ ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह । गाङ्गेरुकी नागबला झषा ह्रस्वा गवेधुका ॥ बलाचतुष्टयगुणाः । बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् । स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥ बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् । मूत्रातिसारं हरति दुष्टमेतन्न संशयः ॥” इति भावप्रकाशः ॥ “स्निग्धायुष्या बला वृष्या ग्राहिणी वात- पित्तजित् ॥” इति राजनिर्घण्टः ॥ (विद्याविशेषः । सा च ब्रह्मणः सुता । विश्वा- मित्रेण रामाय प्रदत्ता । अस्याः प्रभावात् क्षुधातृष्णादिजनितक्लेशो न भवेत् । यथा, रामा- यणे । १ । २२ । ११ — २२ । “अध्यर्द्धयोजनं गत्वा सरय्वा दक्षिणे तटे । रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥ गृहाण वत्स्य ! सलिलं माभूत् कालविपर्य्ययः । मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥ न श्रमो न ज्वरो वा ते न रूपस्य विपर्य्ययः । न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरॄताः ॥ न बाह्वोः सदृशो वोर्य्ये पृथिव्यामस्ति कश्चन । त्रिषु लोकेषु वा राम ! न भवेत् सदृशस्तव ॥ बलामतिबलाञ्चैव पठतस्तात राघव ! ॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये । नोत्तरे प्रतिबक्तव्ये समो लोके तवानघ ! ॥ एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव । बला चातिबला चैव सर्व्वज्ञानस्य मातरौ ॥ क्षुत्पिपासे न ते राम ! भविष्येते नरोत्तम ! । बलामतिबलाञ्चैव पठतस्तात राघव ! ॥ विद्याद्वयमधीयाने यशश्चाथ भवेद्भवि ॥ पितामहसुते ह्येते विद्ये तेजःसमन्विते । प्रदातुं तव काकुस्थ ! सदृशस्त्वं हि पार्थिव ! ॥ कामं बहुगुणाः सर्व्वे त्वय्येते नात्र संशयः । तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ ततो रामो जलं पृष्ट्वा प्रहृष्टवदनः शुचिः प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥ विद्यासमुदितो रामः शुशुभे भीमविक्रमः । सहस्ररश्मिर्भगवान् शारदीव दिवाकरः ॥”)



Correction: