वाचस्पत्यम्
वलाक || पुंस्त्री० वल—आकन् । वकपक्षिणि अमरः स्त्रियां अजा० टाप् ।
शब्दकल्पद्रुमः
वलाकः is an alternate of बलाकः. ब(व)लाकः || पुं, (बलेन अकतीति । बल + अक + पचाद्यच् ।)
बकजातिः । इति भरतः ॥ (पूरु- पुत्त्रः । स च पीतगङ्गस्य जह्नोः पौत्रः । यथा, भागवते । ९ । १५ । ३ । “जह्नोस्तु पूरुस्तत् पुत्त्रो बलाकश्चात्मकोऽजकः ॥” वत्सप्रीपुत्त्रभेदः । यथा, मार्कण्डेये । ११८ । २ । “तस्य तस्यां सुनन्दायां पुत्त्रा द्बादश जज्ञिरे । प्रांशुः प्रचीरः शूरश्च सुचक्रो विक्रमः क्रमः ॥ बली बलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ॥” जातूकर्ण्यस्य मुनेः शिष्यविशेषः । यथा, श्रीभाग- वते । १२ । ६ । ५८ । “जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् । बलाकपैलजावालविरजेभ्यो ददौ मुनिः ॥” राक्षसभेदः । यथा, मार्कण्डेये । ६९ । ६४ । “तां जहाराद्रितनयो बलाको नाम राक्षसः ॥” स्वनामख्यातो व्याधविशेषः । यथा, महा- भारते । ८ । ६९ । ४० । “मृगव्याध्योऽभवत् कश्चित् बलाको नामभारत ॥”)