शब्दकल्पद्रुमः
वलाका is an alternate of बलाका. ब(व)लाका || स्त्री (बलते इति । बल संवरणे + बला- कादयश्च ।” उणा० ४ । १४ । इति अक । यद्बा, बलेन अकतीति । बल + अक कुटिलगतौ + पचाद्यच् ।)
बकजातिविशेषः । (यथा, मनुः । ५ । १४ । “बकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम् ॥”)
तत्पर्य्यायः । विषकण्ठिका २ । इत्यमरः । २ । ५ । २५ ॥ विषकण्ठी ३ बलाकी ४ । इति शब्दरत्नावली ॥ कारायिका ५ लिङ्गलिका ६ । इति जटाधरः ॥ विषकण्ठी ७ शुष्काङ्गा ८ दीर्घकन्धरा ९ धर्म्मान्ता १० कामुकी ११ श्येता १२ मेघानन्दा १३ जलाश्रया १४ । बलेन शक्त्या दूरमूर्द्धमकति । वल वल्ल संवरणे बलाकादय- श्चेत्याकन् वलाका । इति रायमुकुटकृतव्युत्पत्ति- द्बयेन पवर्गीयबकारादिरन्त्यवकारादिश्चायं शब्दः ॥ * ॥
अस्या मांसगुणाः । वायुनाशित्वम् । स्निग्धत्वम् । सृष्टमलत्वम् । वृष्यत्वम् । कफपित्त- हरत्वम् । हिमत्वञ्च । इति राजवल्लभः ॥ सारस- हंसबलाकाचक्रक्रौञ्चादयो जले प्लवनात् प्लव- संज्ञाः कथितास्ते तन्मांसं गुरूष्णञ्च बलदायि । अपि च । “अन्ये बकबलाकाद्या गुरवः प्राणिभक्षणात् ।” इति राजनिर्घण्टः ॥ अन्यच्च । “हंससारसकाचाक्षबकक्रौञ्चसरारिकाः । नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः । प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः ॥ प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥” इति भावप्रकाशः ॥ (कामुकी । इति शाश्वतः ॥)