शब्दकल्पद्रुमः
वलिध्वंसी is an alternate of बलिध्वंसी. ब(व)लिध्वंसी || [न्] पुं, (बलिं तदाख्यया प्रसिद्धं दैत्यविशेषं ध्वंसयतीति । बलि + ध्वंस + णिनि । वामनरूपेण बलेः सर्व्वस्वग्रहणादस्य तथा- त्वम् । यद्बा, बलिना पूजोपहारेण अविद्यां ध्वंसयितुं शीलमस्य ।)
विष्णुः । इत्यमरः । १ । १ । २१ ॥ (भगवता वामनरूपधरेण बलिकृत- यज्ञगमनपूर्ब्बकं तत्सकाशात् सर्व्वस्वं गृहीत- मित्येतत्कथा बलिशब्दे द्रष्टव्या ॥)