शब्दकल्पद्रुमः
वलिनन्दनः is an alternate of बलिनन्दनः. ब(व)लिनन्दनः || पुं, (बलेस्तदाख्यया प्रसिद्धस्य दैत्यस्य नन्दनः पुत्त्रः ।)
बाणासुरः । इति शब्दरत्ना- वली ॥ (अयं खलु यादवश्रेष्ठेन भगवता कृष्णेन सह युद्धमकरोत् । तपःप्रतापवशीकृतो महा- देवश्च स्वयमस्य दौवारिकत्वञ्चकार । तद्विव- रणादिकं हरिवंशे १७३ अध्यायमारभ्य १८३ अध्यायपर्य्यन्तं द्रष्टव्यम् ॥ बलेः ययातिवंशीयस्य राज्ञः नन्दनः क्षेत्रजः पुत्त्रः इति व्युत्पत्त्या अङ्गवङ्गकलिङ्गाद्याः । यदुक्तं, विष्णुपुराणे । ४ । १८ । १ । “हेमात् सुतपास्तस्मात् बलिः यस्य क्षेत्रे दीर्घतमसा अङ्गवङ्गकलिङ्गसुह्म- पुण्ड्राख्यं बालेयं क्षत्त्रमजन्यत ॥”)