संस्कृत-शब्दकोशः

वलिनी वलिपुष्ट

वलिन्

शब्दकल्पद्रुमः

वली is an alternate of बली. ब(व)ली || [न्] पुं, (बलमस्यास्तीति । बल + “बला- दिभ्यो मतुबन्यतरस्याम् ।” ५ । २ । १३६ । इति पक्षे इनिः ।)
बलरामः । इति शब्दरत्नावली ॥ उष्ट्रः । महिषः । वृषभः । शूकरः । कफः । कुन्दवृक्षः । इति जटाधरः ॥ माषः । (स्वनाम- ख्यातो वत्सप्रीपुत्त्रः । यथा, मार्कण्डेये । ११८ । २ । “बली बलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ॥”)
बलयुक्ते, त्रि । तत्पर्य्यायः । अंशलः २ निर्द्दिग्धः ३ मांसलः ४ उपचितः ५ । इति हेमचन्द्रः । ३ । ११२ ॥ (यथा, मार्कण्डेये । ३४ । ८९ । “सार्द्धं न बलिभिः कुर्य्यान्न च न्यूनैर्न निन्दितैः ॥”)



Correction: