शब्दकल्पद्रुमः
वलिमान् is an alternate of बलिमान्. ब(व)लिमान् || [त्] त्रि, (बलिश्चर्म्मसंकोचोऽस्त्य- स्येति । बलि + मतुप् ।)
बलिनः । जरया श्लथ- चर्म्मयुक्तः । इत्यमरटीका ॥ (बलिः पूजोपहारं विद्यतेऽस्येति व्युत्पत्त्या उपहारविशिष्टः । यथा, रघुः । १४ । १५ । “वाष्पायमाणो बलिमन्निकेत- मालेख्यशेषस्य पितुर्विवेश ॥”)