संस्कृत-शब्दकोशः

वलिशी वलिसद्मन्

वलिष्ठ

शब्दकल्पद्रुमः

वलिष्ठः is an alternate of बलिष्ठः. ब(व)लिष्ठः || त्रि (अतिशयेन बलवान् । बलवत् + इष्ठन् । विन्मतोर्लुगिति मतुपो लुक् ।)
अति- शयबलबान् । यथा, —
“प्रायश्चित्तं बिना पूता त्वमेष शुद्धमानसा । अकामा या बलिष्ठेन न स्त्री जारेण दुष्यति ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५५ अध्यायः ॥ बलिष्ठा यथा । वायुः १ विष्णुः २ गरुडः ३ हनूमान् ४ यमः ५ महावराहः ६ सरभः ७ सत्प्रतिज्ञा ८ गजः ९ पृथुराजः १० बलरामः ११ वाली १२ बलिः १३ भीमः १४ सती १५ शेषः १६ पुराकृतम् १७ । इति कविकल्प- लता ॥


शब्दकल्पद्रुमः

वलिष्ठः is an alternate of बलिष्ठः. ब(व)लिष्ठः || पुं, (अतिशयेन बलवान् + बलवत् + इष्ठन् । विन्मतोर्लुगिति मतुपो लुक् । प्रशस्त- भारवाहकत्वादस्य तथात्वम् ।)
उष्ट्रः । इति राजनिघण्टः ॥ (धर्म्मसावर्णिकमन्वन्तरान्त- र्गत ऋषिभेदः । यथा, मार्कण्डेये । ९४ । १९ । “हविष्मांश्च बलिष्ठश्च ऋष्टिरन्यस्तथारुणिः । निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ॥ सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥” रलयोरैक्यात् क्वचित् वरिष्ठश्चेति पाठो दृश्यते ॥)



Correction: