वाचस्पत्यम्
वलीवर्द्द is an alternate of वरीवर्द्द. वरी(ली)वर्द्द || पु० वृध—यड्—लुक् अच् पृषो० रख वा लः । वृषभे अमरः ।
शब्दकल्पद्रुमः
वलीवर्द्दः is an alternate of बलीवर्द्दः. ब(व)लीवर्द्दः || पुं, (ईर्लक्षीः वर् वरणम् । वर् ईप्सायां क्विप् । ईश्च वर् च ईवरौ तौ ददातीति ईवर्द्दः । बलमस्यास्तीति बली । ततो बली च ईवर्द्दश्च इति ।)
वृषः । इत्यमरः । २ । ९ । ५९ ॥ (यथा, कथासरित्सागरे । २० । २७ । “संयोज्याथ बलीवर्द्दयुगं रचितमङ्गलः । कृत्वा बलिं तस्य तरोरारेभे कृषिमत्र सः ॥”)
तीर्थयात्रायां तदारूढस्य दोषो यथा, —
“बलीवर्द्दसमारूढः शृणु तस्यापि यत् फलम् । नरके वसते षोरे गवां क्रोधे हि दारुणे ॥ सलिलञ्च न गृह्णन्ति पितरस्तस्य देहिनः ॥” इति मात्स्ये ८८ अध्यायः ॥