वाचस्पत्यम्
वल्क || न० वल—संवरणे क कस्य नेत्त्वम् । १ वृक्षादीनां त्वचि वल्कले २ मत्स्यानां त्वचि शल्के (आँइस) मेदि० । ३ खण्डे च विश्वः । ४ पद्विकालोध्रे पु० राजनि० ।
वाचस्पत्यम्
वल्क || भाषणे चु० उभ० द्वि० येट् । वल्कयति ते अववल्कत् त ।
शब्दकल्पद्रुमः
व(ब)ल्कं || क्ली (वलते इति । वल संवरणे + “शूक- वल्कोल्काः ।” उणा० ३ । ४२ । इति कप्रत्य- यान्तो निपातितः ।)
वल्कलः । (यथा, रघौ । ८ । ११ । “गुणवत् सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥”)
शल्कः । इति मेदिनीशब्दरत्नावल्यौ ॥ खण्डम् । इति विश्वः ॥
शब्दकल्पद्रुमः
व(ब)ल्कः || पुं, (वल संवरणे + कः निपातितश्च ।)
पट्टिकालोघ्रः । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
वल्क || क भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क, वल्कयति । भाषणं कथनम् । इति दुर्गादासः ॥