वाचस्पत्यम्
वल्गा || स्त्री वल्ग—अच् । (लागाम) अश्वमुखस्थे रज्जुभेदे हेमच०
शब्दकल्पद्रुमः
वल्गा || स्त्री (वल्ग्यतेऽश्वोऽनयेति । वल्ग + करणे घञ् । टाप् ।)
दन्तालिका । लागाम् इति भाषा । तत्पर्य्यायः । अवक्षेपणी २ रश्मिः ३ कुशा ४ । इति हेमचन्द्रः ॥ (यथा, राजतरङ्गिण्याम् । ५ । ३४७ । “वल्गन्मध्येऽश्ववाराणां नृत्यते वाग्रवाजिना । वल्गाङ्केनोद्वहल्लम्बं शिरस्त्रं वामपाणिना ॥”)