वाचस्पत्यम्
वल्गित || न० वल्ग—भावे क्त । १ अश्वस्य गतिभेदे प्लुतगतौ अमरः । २ गमने ३ बहुभाषणे च ।
शब्दकल्पद्रुमः
वल्गितं || क्ली (वल्ग् + भावे क्तः ।)
अश्वस्य विशेषगमनम् । तत्तु वेगेन विक्षिप्तोपरिचरणम् । इत्यमरभरतौ ॥ प्लुतगमनम् । (यथा, शिशुपाल- वधे । २ । २७ । “अनिर्लोडितकार्य्यस्य वाग्जालं वाग्मिनो वृथा । निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥”)
बहुभाषणञ्च ॥