संस्कृत-शब्दकोशः

वल्गित वल्गुक

वल्गु

वाचस्पत्यम्

वल्गु ||‍ पु० वल—संवरणे उ—गुक् च । १ छागे २ मनोहरे त्रि० मेद्रि० । सज्ञायां कन् । वल्गुक चन्दने वने पणे च न० । चारुणि सुन्दरे च त्रि० अजयः । अस्यौ- ष्ठ्यादित्वमित्यन्ये ।


शब्दकल्पद्रुमः

व(ब)ल्गुः || पुं, (वलते इति । वल प्राणने + “वलेर्गु- कच् ।” उणा० १ । २० । इति उप्रत्ययः । गुगागमश्च धातोः ।)
छागः । सुन्दरे, त्रि । इति मेदिनी । गे, २५ ॥ (यथा, रघौ । ५ । ६८ । “तद्द्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामधिरोहतां द्वे । पस्पन्दमानपरुषेतरतारमन्तः चक्षुस्तव प्रचलितभ्रमरञ्च पद्मम् ॥”)



Correction: