शब्दकल्पद्रुमः
वल्गुलिका || स्त्री (वल्गुल + संज्ञायां कन् । टापि अत इत्वञ्च ।)
तैलपायिका । यथा, —
“वल्गुलिका मुखविष्ठा परोष्णी तैलपायिका ॥” इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । ५५ । ७९ । “ततो वल्गुलिकातस्तं कृष्ट्वा पटमदर्शयत् । स चित्रकृत्तां चित्रस्थां राज्ञेमदनसुन्दरीम् ॥”)