वाचस्पत्यम्
वल्मीक || पुंन० वल—ईक मुट् च । क्षुद्रकीटकृतमृत्स्तूपे अमरः तन्मृष्टा शौचनिषेधो विष्णुपु० उक्तो यथा “वल्मीकमृषिकोत्खातां मृदमन्तर्जलां तथा । शौचाव- शिष्टां गेहाच्च नादद्यात् लेपसम्भवाम्” । देवप्रतिमायाः शिल्पिदोषशान्तये तन्मृदा प्रतिमाक्षालनं विहितं यथा “वल्मीकमृत्तिकाभिश्च गोमयेन सुभस्मना । क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये” देवप्र० व० । तेन देवमूर्त्तीनां स्नापनमपि देवप्र० त० विहितं यथा ||“स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि । पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्षिण्डकेरपि । मृत्तिका करिदन्तस्य पर्वताश्वखुरस्य च । कुशवल्मीकसंम्भूता मृत्पञ्चक- मुदीरितम्” देवप्र० त० । तत्राविर्भूते प्राचेतके स्वनाम- ख्याते रामायणकर्त्तरि २ मुनिभेदे ३ रोगभेदे च विश्चः । दद्रोशनिदानादि भावप्र० उक्तं यथा ||“ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः । ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमे- खैव गतप्रवृद्धिः । मुखैरनेकैस्त्वतितोदवद्भिः विसर्पवत् सर्पति चोन्नतापौ । वल्मीकमाहुर्मिषजी विकारम् निष्प्रत्यनीकं चिरजं विशेषात्” । वल्मीकवदित्यनेन प्र- चुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते निष्प्रत्यनीक- मुपचारायोग्यम्” । ततः भवार्थ इञ् । वाल्मीकि वल्मोकभवे प्राचेतसे मुनौ शब्दरत्न० ।
शब्दकल्पद्रुमः
व(ब)ल्मीकः || पुं, क्ली, (वलते इति । वल संवरणे + “अलीकादयश्च ।” उणा० ४ । २५ । इत्यत्र वलतेर्म्मुमागमश्चेति उज्ज्वलदत्तोक्त्या काकनन्तो निपातः ।)
उयीकाकृतमृत्तिकास्तूपः । तत्- पर्य्यायः । वामलूरः २ नाकुः ३ । इत्य- मरः ॥ वल्मिकः ४ वाल्मीकः ५ वाल्मीकिः ६ वाल्मिकिः ७ । इति तट्टीकायां भरतः ॥ पुग- लकः ८ शक्रमूर्द्धा ९ कृमिशैलकः १० । इति शब्दरत्नावली ॥ * ॥
(यथा, मेघदूते । १५ । “वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्ड- लस्य ॥”)
तन्मृत्तिकया शौचनिषेधो यथा । विष्णुपुरा- णम् । “वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा । शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् । अन्तःप्राण्यवपन्नाञ्च हलोत्खातां न कर्द्द- माम् ॥” इत्याह्रिकाचारतत्त्वम् ॥ * ॥
देवप्रतिष्ठायां स्नानात् पूर्व्वं शिल्पिदोषशान्त्यर्थं तन्मृत्तिकया क्षालनं यथा, —
“वल्मीकमृत्तिकाभिस्तु गोमयेन सुभस्मना । क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये ॥” वल्मीकमृदादिस्नाने मन्त्रविशेषानुपादानात् मन्त्रानादेशे गायत्त्रीति शूलपाणिलिखितात् गायत्त्र्या तत्तन्मूलमन्त्रेण वा स्नानं कारयि- तव्यम् । तया स्नानं यथा, —
“स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि । पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्पिण्डकैरपि ॥ मृत्तिका करिदन्तस्य पर्व्वताश्वखुरस्य च । कुशवल्मीकसम्भूतं मृत्पञ्चकमुदीरितम् ॥” इति देवप्रतिष्ठातत्त्वम् ॥
शब्दकल्पद्रुमः
वल्मीकः || पुं, (वल्मीक उयीकाकृतमृत्तिकास्तूपः उत्पत्तिकारणत्वेनास्त्यस्येति । अच् ।)
वाल्मीकि- मुनिः । रोगविशेषः । इति विश्वः ॥ अथ वल्मीकरोगस्य लक्षणम् । “ग्रीवां सकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः । ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतप्रवृद्धिः ॥ मुखैरनेकैस्त्वतितोदवद्भि- र्विसर्पवत् सर्पति चोन्नताग्रैः । वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ॥” ग्रीवा कृकाटिका । अंसः स्कन्धः । कक्षा बाहुमूलम् । गलः कण्ठः । वल्मीकवदित्यनेन प्रचुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते । निष्प्रत्यनीकं उपचारायोग्यम् ॥ * ॥
अथ तस्य चिकित्सा । “शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसा- धयेत् । विधानेनार्व्वुदोक्तेन शोधयित्वा च रोधयेत् ॥ बल्मीकन्तु भवेद्यस्य नातिवृद्धममर्म्मजम् । तत्र संशोधनं कृत्वा शोणितं मोक्षयेद् भिषक् ॥ कुलत्थिकानां मूलैश्च गुडूच्या लवणेन च । आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ॥ श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् । सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपवाहयेत् ॥ पक्वं तद्वा विजानीयाद्गतीः सर्व्वा यथाक्रमम् । अभिज्ञाय गतीश्छित्त्वा प्रदिह्यान्मतिमान् भिषक् ॥ संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् । व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् ॥ मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः । जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ॥ वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् । पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् ॥ वल्मीकं यत् सशोफं स्याद्बर्ज्यं तद्धि विजा- नता ॥” मनःशिलाद्यं तैलम् । इति भावप्रकाशः ॥ (अस्य मृदो व्यवहारेण रोगनाशित्वं यथा, —
“क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक् । गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम् ॥” इति वैद्यकचक्राणिसंग्रहे ऊरुस्तम्भाधिकारे ॥)