शब्दकल्पद्रुमः
वल्यं is an alternate of बल्यं. ब(व)ल्यं || क्ली (बलाय हितम् । बल + “बुञ्छण् कठजिलसेनिरढञ्ण्ययेति ।” ४ । २ । ८० । इति यः ।)
प्रधानधातुः । शुक्रम् । बलकरे, त्रि । इति मेदिनी । ये, ४० ॥ (यथा, —
“कट्वम्लवीर्य्यो लशुनो हितश्च स्निग्धो गुरुस्वादुरसोऽथ बल्यः ॥” इति हारीते कल्पस्थाने तृतीयेऽध्याये ॥)