संस्कृत-शब्दकोशः

वल्ल वल्लभ

वल्लकी

वाचस्पत्यम्

वल्लकी ||‍ स्त्री वल्ल—क्कुन् गौरा० ङीष् । १ वीणायाम् अमरः । २ सल्लकीवृक्षे च राजनि० ।


शब्दकल्पद्रुमः

वल्लकी || स्त्री (वल्लते इति । वल्ल + क्वुण् । गौरा- दित्व । ङीष् ।)
वीणा । इत्यमरः ॥ (यथा, हरिवंशे । ८४ । १११ । “वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् ॥”)
सल्लकीवृक्षः । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, —
“वल्लकी गजभक्ष्या च सुवहा सुरभीरसा । महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: