वल्लभा
वल्लरि
वल्लर
वाचस्पत्यम्
वल्लर || न० वल्ल अरन् । १ कृष्णागुरुणि मेदि० २ गहने ३ कुञ्जे च राजनि० । ४ मञ्जर्य्यां शब्दर० ।
शब्दकल्पद्रुमः
वल्लरं || क्ली (वल्लते इति । वल्ल + अरन् ।)
कृष्णा- गुरुः । इति राजनिर्घण्टः ॥ मञ्जरिः । इति शब्द- रत्नावली ॥ गहनम् । कुञ्जम् । इति धरणिः ॥