वाचस्पत्यम्
वल्लरी is an alternate of वल्लरि. वल्लरि(री) || स्त्री वल्ल—अरि वा ङीप् । १ मञ्जर्य्याम् अमरः । २ मेथिकायां ३ चित्रमूले च राजनि० ।
शब्दकल्पद्रुमः
वल्लरी || स्त्री (वल्ल + क्विप् । वल्लं संवरणं ऋच्छतीति । ऋ + अच इः । कृदि- कारादिति वा ङीष् ।)
मञ्जरी । इत्यमर- भरतौ ॥ (लता । यथा, कुमारे । ४ । ३१ । “अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥”)
चित्रमूलम् । मेथिका । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, —
“मेथिका मिथिनिर्मेथिर्दीपनी बहुपुत्त्रिका । बोधिनी बहुबीजा च जातिगन्धफला तथा ॥ वल्लरी चैव कामन्था मिश्रपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पित्तजिद्वायुनुद्द्विधा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे मागे ॥)