वाचस्पत्यम्
वल्लव || पुंस्त्री० वल्ल—घञ् तं वाति वा—क । १ गोपे अमरः स्त्रियां ङीष् । २ पाचके अमरः ३ भौमसेने मेदि० ।
शब्दकल्पद्रुमः
वल्लवः || त्रि (वल्लमानन्दं वावीति । वा + कः ।)
सूपकारः । इत्यमरः ॥
शब्दकल्पद्रुमः
वल्लवः || पुं, (वल्ल प्रीतौ + क्विप् । वल्लं प्रीतिं वातीति । वा + कः ।)
गोपः । इत्यमरः ॥ (यथा, माघे । ११ । ८ । “द्रुततरकरदक्षाः क्षिप्तवैशाखशैले दधति दधनि धीरानारवान् वारिणीव । शशिनमिव सुरौघाः सारमुद्धर्त्तुमेते कलसिमुदधिगुर्व्वी वल्लवा लोडयन्ति ॥”)
भीमसेनः । इति मेदिनी । वे, ४४ ॥ (विराटनगरे छद्मवासकाले एवास्य एतन्नाम आसीत् । यथामहाभारते । ४ । २ । १ । “पौरोगवो ब्रुवाणोऽहं वल्लवो नाम नामतः । उपस्थास्यामि राजानं विराटमिति मे मतिः ॥”)