संस्कृत-शब्दकोशः

वल्लव वल्लि

वल्लवी

शब्दकल्पद्रुमः

वल्लवी || स्त्री (वल्लव + ङीष् ।)
वल्लवजातिस्त्री । वल्लवपत्नी । तत्पर्य्यायः । आभीरी २ गोपिका ३ गोपी ४ महाशूद्री ५ गोपालिका ६ । इति शब्दरत्नावली ॥ (यथा, किराते । ४ । १७ । “स मन्थरावल्गित-पीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः । निरीक्षितुं नोपरराम वल्लवी- रभिप्रनृत्ता इव वारयोषितः ॥”)



Correction: