वाचस्पत्यम्
वल्लि(ल्ली) || स्त्री वल्ल—इन् वा ङीप् । १ लतायाम् अमरः । २ पृथिव्याञ्च शब्दच० दीर्घान्तस्तु ३ अजमोदायां मेदि० ४ कैवर्त्तिकायाम् ५ चव्ये च राजनि० ।
शब्दकल्पद्रुमः
वल्लिः || स्त्री (वल्लते संवृणोति वृक्षादीनिति । वल्ल + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।)
लता । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । १२ । १८४ । १३ । “वल्लिर्वेष्टयते वृक्षं सर्व्वतश्चैव गच्छति ॥”)
पृथिवी । इति शब्दमाला ॥