संस्कृत-शब्दकोशः

वल्ल्या वल्वजा

वल्वज

वाचस्पत्यम्

वल्वज ||‍ पु० वलते भुवं वेष्टयति वल—क्विप् तादृशः सन् वजति गच्छति वज—अच् । १ उलपे तृणभेदे अमरः । (वावुइ) २ वृक्षभेदे स्त्री राजनि० ।


शब्दकल्पद्रुमः

व(ब)ल्वजः || पुं, (वल्वे पर्व्वते जायते इति । जन् + डः ।)
उलपः । इति हेमचन्द्रः ॥ वाव इति ख्याततृणम् । इत्यमरः ॥ वलते भुवं वेष्टयति विशादित्वात् वप्रत्यये वल्वः पर्व्वतः तत्र जाता वल्वजाः इत्यन्ये । स्वभावात् बहुत्वे वल्वजाः । एको वल्वज इति भाष्यकारवचनादेकत्वमपि अतएव सुमनोऽप्सरोवल्वजादेर्व्वेति पाक्षिक- बहुत्वार्थं क्रमदीश्वरसूत्रम् । इति तट्टीकायां भरतः ॥ (यथा, मनुः । २ । ४३ । “मुञ्जालाभे तु कर्त्तव्याः कुशाश्मान्तकवल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥”)



Correction: