संस्कृत-शब्दकोशः

वल्वज वल्ह

वल्वजा

शब्दकल्पद्रुमः

व(ब)ल्वजा || स्त्री (वल्वे पर्व्वते जायते इति । जन + डः । टाप् ।)
तृणविशेषः । सावे वागे इति हिन्दी भाषा । तत्र्य्यायः । दृढपत्री २ तृणेक्षुः ३ तृणवल्वजा ४ मौञ्जीपत्रा ५ दृढतृणा ६ पानीयाश्रा ७ दृढक्षुरा ८ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । पित्तदाहतृषापहत्वम् । वातप्रकोपणत्वम् । रुच्यत्वम् । कण्ठशुद्धिकारि- त्वञ्च । इति राजनिर्घण्टः ॥



Correction: