वाचस्पत्यम्
वल्ह || उत्कर्षे भ्वा० आ० सक० सेट् । वल्हते अवल्हिष्ट ।
वाचस्पत्यम्
वल्ह || दीप्तौ चु० उभ० अक० सेट् । वल्हयति अववल्हत् त
शब्दकल्पद्रुमः
वल्ह || क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
क, वल्हयति । त्विषि दीप्तौ । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वल्ह || ङ श्रैष्ठे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
ङ, वल्हते धनी श्रेष्ठः स्यादित्यर्थः ।