संस्कृत-शब्दकोशः

वल्ह वश

वव

वाचस्पत्यम्

वव ||‍ पु० वा ड प्रकारे द्वित्वम् ज्योतिषोक्ते तिव्यर्द्धात्मके प्रथमे करणे । अस्य औष्ठप्रादित्वमित्यन्ये ।


शब्दकल्पद्रुमः

ववः is an alternate of बकः. ब(व)कः || पुं, (ब(व)ङ्कते कुटिलीभवतीति । वकि + अच् । पृषोदरादित्वात् नलोपः ।)
स्वनाम- ख्यातपक्षिविशेषः । तत्पर्य्यायः । कह्वः २ । इत्यमरः । २ । ५ । २२ ॥ द्वारवलिभुक् ३ कक्षेरुः ४ शुक्लवायसः ५ दीर्घजङ्घः ६ बकोटः ७ गृहवलिप्रियः ८ । इति शब्दरत्नावली ॥ निशैतः ९ शिखी १० चन्द्रविहङ्गमः ११ । इति त्रिकाण्ड- शेषः ॥ तीर्थसेवी १२ तापसः १३ मीन- घाती १४ मृषाध्यायी १५ निश्चलाङ्गः १६ दाम्भिकः १७ । इति राजनिर्घण्टः ॥ अस्य मांसस्य गुणाः । “शरारिबककाकाश्च दात्यूहाः पवनापहाः ॥” इति रत्नावली ॥ अपि च । “हंससारसकाचाक्षवकक्रौञ्चशरारिकाः । नन्दीमुखीसकादम्बावलाकाद्याः प्लवाः स्मृताः ॥ प्लवन्ते सलिले यस्मात् एते तस्मात् प्लवाः स्मृताः ॥ कुलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधानूपजातयः ॥ आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः । श्लेष्मलाः पिच्छलाश्चापि मांसपुष्टिप्रदा भृशम् ॥ तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाः स्मृताः ॥” इति भावप्रकाशः ॥ स्वनामख्यातपुष्पवृक्षः । तत्पर्य्यायः । शिव- वल्ली २ पाशुपतः ३ एकाष्ठीलः ४ वसुः ५ । इत्यमरः ॥ एकाष्ठीला ६ बुकः ७ वसुकः ८ वसूकः ९ । इति तट्टीका ॥ बकपुष्पः १० शिवमल्ली ११ । इति शब्दरत्नावली ॥ काक- शीर्षः १२ स्थूलपुष्पः १३ शिवप्रियः १४ काक- नामा १५ वसहट्टः १६ स्वपूरकः १७ रक्त- पुष्पः १८ मुनितरुः १९ अगस्तिः २० वङ्ग- सेनकः २१ । इति रत्नमाला ॥ अगस्त्यः २२ शीघ्रपुष्पः २३ मुनिद्रुमः २४ व्रणारिः २५ दीर्घफलकः २६ वक्रपुष्पः २७ सुरप्रियः २८ । “सितपीतनीललोहितकुसुमभेदाच्चतुर्विधो- ऽगस्तिः । मधुरशिशिरदोषश्रमकासविनाशनश्च भूतघ्नः ॥” तथा च । “अगस्ति शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् । बलासकासवैवर्ण्यभूतघ्नञ्च बलावहम् ॥” इति राजनिर्घण्टः ॥ अपि च । “अगस्तिकुसुमं शीतं चातुर्थकनिवारकम् । नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च । पीनसश्लेष्मपित्तघ्नं वातघ्न मुनिभिर्मतम् ॥” इति भावप्रकाशः ॥ अन्यच्च । “वासकस्य च पुष्पा वङ्गसेनस्य चैव हि । कटुपाकानि तिक्तानि कासक्षयकराणि च ॥” इति राजवल्लभः ॥ “बकः पाशुपतश्चैव शिवापीडश्च सुव्रतः । वसुकश्च शिवाङ्कश्च शिवेष्टः क्रमपूरकः ॥ शिवमल्लिः शिवाह्लादः शाम्भवो रविसंमितः । बकोऽतिशिशिरस्तिक्तो मधुरो मधुगन्धकः ॥ पित्तदाहकफश्वासश्रमहारी च दीपनः ॥” इति च राजनिर्घण्टः ॥ “शिवमल्ली पाशुपत एकाष्ठीला वुको वसुः । वुकोऽनुष्णः कटुस्तिक्तः कफपित्तविषापहः । योनिशूलतृषादाहकुष्ठशोथास्रनाशनः ॥” इत्यपि भावप्रकाशः ॥ तालव्यशकारः । यथा, —
“ — शो वान्तो वपरो बकः ।” इति बीजवर्णाभिधानम् ॥ * ॥
कुवेरः । रक्षोविशेषः । इति मेदिनी । के, ३० ॥ स च भीमेन हतः । (यथा महाभारते । १ । ९५ । ७३ । “तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः ॥”)
अत्र कोषे पवर्गीय बकारादौ पठितोऽयं शब्दः किन्तु अमर- टीकायां भरतेन अन्तःस्थवकारादिवचवक- धातुभ्यां क्रमेण घप्रत्ययेन अन्प्रत्ययेन च साधितः ॥ * ॥
यन्त्रविशेषः । यथा, —
“जलकच्छपपातालदोलाभूधरवालुकाः । बकाद्या यन्त्रभेदाः स्युर्व्वज्रान्धाद्याश्च मूषिकाः ॥” इति शब्दचन्द्रिका ॥ अस्य विवरणं यथा, वैद्यके । “दीर्घकण्ठकाचकूप्या गिलयेत् स्वल्पभाण्डकम् । तिर्य्यक् कृत्वा पचेत् चुल्यां बकयन्त्रमिति स्मृतम् ॥” असुरविशेषः । स च श्रीकृष्णेन हतः । यथा, —
“स्वं स्वं वत्सकुलं सर्व्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्यासं पाययित्वा पपुर्जलम् ॥ ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् । तत्र सुवज्रनिर्भिन्नं गिरेः कूटमिव च्युतम् ॥ स वै बको नाम महानसुरो बकरूपधृक् । आगत्य तरसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ॥ कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ तँतालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरोः । चच्छर्द्द सद्योऽतिरुषाक्षतं बक- स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ तमापतन्तं स निगृह्य तुण्डयो- र्दीर्भ्यां बकं कंससखं सतां गतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद्दिवौकसाम् ॥” इति श्रीभागवते १० स्कन्धे ११ अध्यायः ॥



Correction: