शब्दकल्पद्रुमः
वंशकफं || क्ली आकाशोड्डीयमानसूत्रम् । यथा, — “वृद्धसूत्रकमित्याहुरिन्द्रतूलं मनीषिणः । ग्रीष्महासं वंशकफं वाततूलं मरुद्ध्वजम् ॥” इति हारावली । २३ ॥