वाचस्पत्यम्
वशक्रिया || स्त्री वशस्य क्रिया करणं कृ—भावे श । वशीकरणे ।
शब्दकल्पद्रुमः
वशक्रिया || स्त्री (वशस्य क्रिया करणम् ।)
वशी- करणम् । तत्पर्य्यायः । संवदनम् २ । इत्यमरः ३ मणिमन्त्रौषधैर्व्वशीकरणं संवदनं संपूर्व्वो वदि- र्व्वशीकरणे भावेऽनट् । संवदना च इति केचित् । करणेऽनटि वशक्रियासाधने मणि- मन्त्रादावपि । जयश्रियः संवदनं यतस्तदिति रघुः । संचलनं इति पाठान्तरम् । इति तट्टीकायां भरतः ॥