शब्दकल्पद्रुमः
वशगा || स्त्री (वशं गच्छतीति । गम + डः ।)
वशीभूता । इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । ४३ । ३२ ॥ “गाङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति ॥” अस्मिन्नर्थे वाच्यलिङ्ग एवायं शब्दः । यथा, महाभारते । ४ । ६ । १२ । “ददानि ते हन्त वरं यमिच्छसि प्रशाधि मत्स्यान् वशगोऽस्म्यहं तव ॥”)