संस्कृत-शब्दकोशः

वशगा वंशजा

वंशज

वाचस्पत्यम्

वंशज ||‍ पु० वंशात् जायते जन—ड । १ वंशवृक्षजाते यवाकारे वेणुयवे राजनि० २ सत्कुलजाते त्रि० । ३ वंशरोचनायां स्त्री टाप् शब्दर० ।


शब्दकल्पद्रुमः

वंशजः || त्रि (वंशात् सद्वंशाज्जायते इति । जन् + डः ।)
सद्वंशजातः । तत्पर्य्यायः । बीज्यः २ वंश्यः ३ । इति हेमचन्द्रः । ३ । ३७७ ॥ (वेणूत्- पन्नोऽपि । यथा, आर्य्यासप्तशत्याम् । ४७९ । “यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्व्वा- णम् । किं कुर्म्मस्तन्निहितं धनुः पदे देवराजेन ॥”)


शब्दकल्पद्रुमः

वंशजः || पुं, (वंशाज्जायते इति । जन् + डः ।)
वेणुयवः । इति राजनिर्घण्टः ॥



Correction: