संस्कृत-शब्दकोशः

वंशपूरक वंशलोचना

वंशरोचना

वाचस्पत्यम्

वंशरो(लो)चना ||‍ स्त्री वंशेषु रोचते रुच—ल्यु वा रस्य लः । वंशपर्वस्थिते श्वेतवर्णे कर्पूराकारे द्रव्ये । (वंशलोचन) । “वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला । तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः । हरेत् कुष्ठं प्रणं पाण्डुं कषायवातकृच्छ्रजित् भावप्र० ।


शब्दकल्पद्रुमः

वंशरोचना || स्त्री (रोचते इति । रुच + नन्द्या- दित्वात् ल्युः । टाप् । वंशस्य रोचना ।)
स्वनामख्यातवंशपर्व्वस्थितश्वेतवर्णौषधविशेषः । वंशलोचन इति भाषा । तत्पर्य्यायः । त्वक्- क्षीरा २ । इत्यमरः । २ । ९ । १०९ ॥ वंश- लोचना ३ । इति भरतः ॥ तुगाक्षीरी ४ शुभा ५ वांशी ६ वंशजा ७ । इति रत्नमाला ॥ क्षीरिका ८ । इति शब्दरत्नावली ॥ तुगा ९ त्वक्क्षीरी १० शुभ्रा ११ वंशक्षीरी १२ वैणवी १३ त्वक्सारा १४ कर्म्मरी १५ श्वेता १६ वंश- कर्पूररोचना १७ तुङ्गा १८ रोचनिका १९ पिङ्गा २० वंशशर्करा २१ । अस्या गुणाः । रूक्षत्वम् । कषायत्वम् । मधुरत्वम् । हिमत्वम् । रक्तशुद्धिकारित्वम् । तापपित्तोद्रेकहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वंशजा वृंहणी वृष्या बल्या स्वाद्बी च शीतला । तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः । हरेत् कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ॥” इति भावप्रकाशः ॥



Correction: