वाचस्पत्यम्
वशंवद || त्रि० वशं वशकरं मधुरं, वशोऽहनिति वा वदति वद—खच् मुम् च १ प्रियवाक्यवादिनि २ मधुरवादिनि (तवाहं वशः) इति २ वादिनि च ।
शब्दकल्पद्रुमः
वशंवदः || त्रि (वशं तवाहं वश इति वाक्यं वद- तीति । वश + वद् + “प्रियवशे वदः खच् ।” ३ । २ । ३८ । इति खच् । “अरुर्द्विषदन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् ।)
वशं वदति यः । आयत्तकरवाक्यवक्ता । इति मुग्धबोध- व्याकरणम् ॥ (वशीभूतः । यथा, राजतरङ्गि- ण्याम् । ४ । ३९५ । “स जहार दुराचारो भूभृत् लोभवशंवदः ॥”)