वाचस्पत्यम्
वशा || स्त्री वश—अच् । १ बन्ध्यायां २ योषायां ३ सुतायां ४ क- ५ रिण्यां स्त्रीगव्याञ्च मेदि० । अनेन जातेः समासे परनि० गोवशा ।
शब्दकल्पद्रुमः
वशा || स्त्री (वश स्पृहि + अच् । टाप् । “वशि- रण्योरुपसंख्यानम् ।” इति अप् वा ।)
बन्ध्या । (अस्या धनं राज्ञा रक्षितव्यम् । यथा, मनुः । ८ । २८ । “वशाऽपुत्त्रासु चैवम् स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥”)
सुता । योषा । स्त्रीगवी । करिणी । इति मेदिनी । शे, १३ ॥ (यथा, कथासरित्सागरे । ६ । ११० । “असिच्यत स ताभिश्च वशाभिरिव वारणः ॥”)
बन्ध्या गवी । इत्यमरः ॥ (यथा, ऋग्वेदे । २ । ७ । ५ । “त्वं नो असि भारताग्ने वशाभिरुक्षभिः ॥” “वशाभिर्व्वन्ध्याभिर्गोभिः ।” इति तद्भाष्ये सायणः ॥ वशीभूता । यथा, गारुडे । १८३ अध्याये । “सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयेच्च क्षणाद्बै सा वशा भवेत् ॥”)