शब्दकल्पद्रुमः
वंशानुचरितं || क्ली (वंशस्य अनुचरितम् ।)
वंश- चरित्रवर्णनम् । तत्तु पुराणस्य पञ्चलक्षणान्त- र्गतलक्षणविशेषः । यथा, शब्दरत्नावल्याम् । “सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुरितञ्चेति पुराणं पञ्चलक्षणम् ॥” (यथा, भागवते । ९ । १ । ४ । “तेषां वंशं पृथग्ब्रह्मन् ! वंशानुचरितानि च । कीर्त्तयस्व महाभाग ! नित्यं शुश्रूषतां हि नः ॥”)