संस्कृत-शब्दकोशः

वशिन् वशिष्ठ

वशिर

वाचस्पत्यम्

वशिर ||‍ न० वश—इरन् । १ सामुद्रलवणे अमरः । २ नजपिप्प- ल्याम् ३ चव्ये च पु० राजनि० ।


शब्दकल्पद्रुमः

वशिरं || क्ली (उश्यते इष्यते इति । वश + बाहु- लकात् किरच् । यद्वा, वशिं वशत्वं रातीति । रा + कः ।)
सामुद्रलवणम् । इत्यमरः ॥


शब्दकल्पद्रुमः

वशिरः || पुं, (वश + किरच् ।)
गजपिप्पली । इत्यमरः ॥ (अस्य पर्य्यायो यथा, —
“करिपिप्पली करुणा कपिवल्ली कपिल्लिका । श्रेयसी वशिरश्चापि गजाह्वा गजपिप्पली ॥” भुलिटा इति ख्यातः । अस्य पर्य्यायो यथा, —
“पार्व्वतेयश्च करभो वशिरः कपिपिप्पली । जामातासौ क्वचित्प्रोक्तः सूर्य्यावर्त्तः सितोऽपरः ॥” इति बैद्यकरत्नमाला ॥)
चव्यम् । इति राजनिर्घण्टः ॥ अपामार्गः । इति मेदिनी । रे, २०८ ॥ वचा । इति शब्दचन्द्रिका ॥



Correction: