वाचस्पत्यम्
वशीकरण || न० अवशः वशः क्रियतेऽनेन वश—च्वि—कृ—ल्युट् । तन्त्राद्युक्ते वशतासम्पादके मणिमन्त्रादौ ।
शब्दकल्पद्रुमः
वशीकरणं || क्ली (वश + कृ + भावे ल्युट् । अभूत- तद्भावे च्विः ।)
मणिमन्त्रौषधैरायत्तीकरणम् । इति भरतजटाधरौ ॥ अस्य पर्य्यायः वशक्रिया- शब्दे द्रष्टव्यः ॥ * ॥
तत्साधनौषधानि यथा, —
“ब्रह्मदण्डी वचा कुष्ठं प्रियङ्गुनागकेशरम् । दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् ॥” ॐ नारायणाय स्वाहेति । “ताम्बूलं दीयते यस्य स वशी स्यान्न संशयः ।” ॐ हरि हरि स्वाहा ॥ १ ॥ “गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया । चूर्णं कृत्वा यस्य शिरे दीयते स वशी भवेत् ॥ २ ॥ खञ्जरीटस्य मांसन्तु मधुना सह पेषयेत् । ऋतुकाले योनिलेपात् पुरुषो दासतामियात् ॥ ३ ॥ अगुरुं गुग्गुलुञ्चैव नीलोत्पलसमन्वितम् । गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥ ४ ॥ श्वेतापराजितामूलं पिष्टं रोचनया युतम् । यं पश्येत्तिलकेनैव वशीकुर्य्यान् नृपालये ॥ ५ ॥ काकजिह्वा वचा कुष्ठं निम्बपत्रं सकुङ्कुमम् । आत्मरक्तं सभावेयं वशी भवति मानवः ॥ ६ ॥ ॐ नमः सर्व्वसत्त्वेभ्यो नमः । सिद्धिं कुरु कुरु स्वाहा । सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥ ७ ॥ ब्रह्मदण्डी वचा पत्रं मधुना सह पेषयेत् । अङ्गलेपाच्च वनिता नान्यं भर्त्तारमिच्छति ॥ ८ ॥ मूलं जयन्त्या वक्त्वस्थं व्यवहारे जयप्रदम् ॥ ९ ॥ भृङ्गरालस्य भूलन्तु पिष्टं शुक्रेण संयुतम् । अक्षिणी चाञ्जयित्वा तु वशीकुर्य्यान्नरं किल ॥ १० अपराजिताशिफां दद्यान्नीलोत्पलसमन्विताम् । ताम्बूलेन प्रदानाच्च वशीकरणमुत्तमम् ॥ ११ ॥ चतुःषष्टिकलाः प्रीक्ताः कामशास्त्रे वशीकराः । आलिङ्गनाद्या नृस्त्रीणां कुमार्य्यादेर्व्वशीकराः ॥ १२ ॥ रोचनां नागपुष्पाणि विल्वपुष्पं प्रियङ्गवः । कुङ्कुमं चन्दनञ्चैव तिलकेन जगद्बशे ॥ १३ ॥ दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी । तिलतैलेन संयुक्तं योनिलेपात् वशो नरः ॥ १४ ॥ निम्बकाष्ठस्य धूपेन धूपयित्वा भगं स्त्रियः । सुभगा स्यात् सा च रुद्र पतिर्दासो भविष्यति ॥ १५ ॥ माहिषं नवनीतञ्च कुष्ठञ्च मधुयष्टिका । सौभाग्यं भगलेपात् स्यात् पतिर्दासो भवेत्तदा ॥ १६ ॥ पञ्च रक्तानि पुष्पाणि पृथग्जात्या समाहरेत् । कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम् ॥ पुष्पेण तु स पिष्ट्वा च रोचनायां समेकतः । स्त्रिया पुंसा कृतो रुद्र तिलकोऽयं वशीकरः ॥ १७ ॥ ब्रह्मदण्डा तु पुष्पेण याने पाने वशीकरः ॥ १८ ॥ ॐ गं गणपतये स्वाहेति । अयं गणपतेर्मन्त्रो धनविद्याप्रदायकः ॥ इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः । व्यवहारे जयः स्याच्च शतजाप्यान्नृणां प्रियः ॥ १९ ॥ तिलानान्तु घृताक्तानां कृष्णानां रुद्र होमयेत् । अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्द्दिनैः ॥ २० ॥ ह्रींकारं सविसर्गञ्च प्रातःसूर्य्यसमद्युतिम् । स्त्रीणां ललाटे विन्यस्य वश्यतां नयति ध्रुवम् ॥ २१ ॥ यस्तु जुहुयादयुतं शुचिः प्रयतमानसः । दृष्टिमात्रे सदा तस्य वशमायान्ति योषितः ॥ २२ ॥ मनःशिला पत्रकञ्च सगोरोचनकुङ्कुमम् । एभिः कृते च तिलके सदा स्त्री वशतामियात् ॥ २३ ॥ सहदेवो भृङ्गराजः सितापराजिता वचा । तेनैव तिलकं कृत्वा त्रैलोक्यं वशतामियात् ॥ २४ गोरोचना मीनपित्तमाभ्याञ्च कृतवार्त्तिकाम् । यः पुमांस्तिलकं कुर्य्याद्वामहस्तकनिष्ठया । स करोति वशं सर्व्वं त्रैलोक्यं नात्र संशयः ॥ २५ ॥ गोरोचना महादेव ऋतुशोणितभाविता । ततः कृताच्च तिलकान्मानवं यं निरीक्षते । तञ्च सर्व्वं वशं कुर्य्यान्नात्र कार्य्या विचारणा ॥ २६ ॥ नागेश्वरञ्च शैलेयं त्वक् पत्रञ्च हरीतकी । चन्दनं काष्ठसूक्ष्मैला रक्तशालिसमन्विता । एतैर्धूपो वशकरः स्मरवाण इवेश्वर ॥ २७ ॥ रतिकाले महादेव पार्व्वतीप्रिय शङ्कर । निजशुक्रं गृहीत्वा तु वामहस्तेन यः पुमान् । कामिनीचरणं वामं लिम्पेत् स स्यात् स्त्रियाः प्रियः ॥ २८ ॥ सैन्धवञ्च महादेव पारावतमलं मधु । एभिर्लिप्तन्तु लिङ्गं वै कामिनीवशकृद्भवेत् ॥ २९ ॥ पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च । तण्डुलञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः । अनेन लिप्तलिङ्गस्य कामिनी वशतामियात् ॥” ३० ॥ इति मारुडे १८३ । १८६ । १८९ अध्यायाः ॥ “अथान्यत् संप्रवक्ष्यामि वशीकरणमुत्तमम् । येन विज्ञानमात्रेण मन्त्राः सिद्ध्यन्ति तत्क्षणात् ॥ प्रतिमां कारयेद्देवि ! पलेन रजतस्य च । पलार्द्धेन महेशानि ! साध्यस्य प्रतिमां शिवे ॥ हरितालं पलार्द्धञ्च हरिद्राचूर्णकं तथा । गर्त्तं कृत्वा सार्द्धहस्तं यत्र निःक्षिप्य सुन्दरि ! ॥ रक्तासनं तत्र दत्त्वा विशेत्तद्गतमानसः । चतुर्द्दिक्षु महेशानि ! पताका विनिवेशयेत् ॥ रक्तासने चोपविश्य पूर्ब्बास्यो जपमारभेत् । पूजाया नियमं देवि ! जानीहि नगनन्दिनि ॥ तिलपूर्णघटं तत्र स्थापयेत्तत्र देशिकः । प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद्बुधः ॥ अधः कृत्वा पूजयित्वा प्रवालमालया जपेत् । दशसाहस्रजापेन प्रयोगार्हो भवेत्ततः ॥ प्रणवं पूर्ब्बमुच्चार्य्य मायाबीजं द्वितीयकम् । का त्वं त्वल्लाकिनीयुक्तं वामकर्णेन्दुभूषितम् ॥ ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् । साध्यनाम ततो न्यस्य वशमानय तत्परम् ॥ वह्निजायावधिर्म्मन्त्रो जपेद्दशसहस्रकम् । दशांशादिप्रमाणेन होमादींश्च समाचरेत् ॥ प्रातः स्नात्वा हविष्याशी शुचिर्भूत्वा जिते- न्द्रियः । प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि ॥ जपे समाप्ते देवेशि ! हुनेद्दिने दिने शुभे । जातीपुष्पस्य होमेन वशयेन्नात्र संशयः ॥ कर्पू रमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् । पूर्ब्बं प्रणवमुद्धृत्य चामुण्डां प्रवदेत्ततः ॥ तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि सुन्दरि ! । अनेनैव विधानेन संतर्प्य परदेवताम् ॥ सिद्धिः प्रयोगाद्देवेशि ! जायते नात्र संशयः । अभिषेकं ततः कुर्य्यात् शङ्करि प्राणवल्लभे ॥ प्रणवञ्च महेशानि ! चामुण्डां तदनन्तरम् । अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषिञ्चयेत् ॥ तद्दशांशेन देवेशि ! ब्राह्मणान् भोजयेत्तदा । एवं कृते महेशानि ! वशीकरणमुत्तमम् ॥ जायते नात्र सन्देहः सत्यं सत्यं न संशयः । कामतुल्यश्च नारीणां रिपूणां शमनोपमः ॥ यावज्जीवितपर्य्यन्तं स्मरबाण इवेश्वरि ! । जायते नात्र सन्देहः सत्यं सुरगणार्च्चिते ॥ * ॥
श्लेतापराजितामूलं पेषयेद्रोचनायुतम् । शतेनामन्त्रितं कृत्वा तिलकं कारयेत्ततः ॥ वशयेन्नात्र सन्देहः सत्यं सत्यं महेश्वरि ! । चन्द्रसूर्य्यौ यदि वृथा तदा निष्फलभाग्भवेत् ॥ रक्तवस्त्रेण चामुण्डां तोषयेद्बहुयत्नतः । सुवर्णं दक्षिणा देया वित्तानुसारतः प्रिये ! ॥ आद्यन्ते महतीं पूजां कुर्य्यात्तस्या वरानने ! । पञ्चदिनप्रयोगेण राजानं वशमानयेत् ॥ तव प्रीत्यै महादेवि ! कथितं भुवि दुर्लभम् ॥” इति बृहन्नीलतन्त्रम् ॥