संस्कृत-शब्दकोशः

भृजी भृञ्

भृज्

भृजी भर्जने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- भर्जते

अर्थ−
१. भुट्नु, तार्नु ।

कृदन्तरूपमाला

  • 1“भृजी भर्जने” 2 भर्जनम् = पाकविशेषः।
  • ‘… भर्जने भर्जते भृजेः।’ 3 इति देवः।
  • भर्जकः-भर्जिका, भर्जकः-र्जिका, बिभर्जिषकः-बरीभृजकः-जिका;
  • इत्यादीनि 4 सर्वाण्यपि रूपाणि भौवादिकगर्जतिवत् 5 बोध्यानि।
  • निष्ठायाम्- 6 भृक्तम् 7 - क्तवान्, घञि- 8 भर्गः, 9 भृज्यम्, 10 अवश्यभर्ज्यम् इमानि रूपाण्यधि- कान्यत्रेति विशेषः।

प्रासङ्गिक्यः

  • ↑ (११६९)
  • ↑ (१-भ्वादिः-१७८। सक। सेट्। आत्म।)
  • ↑ (श्लो। ६८)
  • ↑ [पृष्ठम्०९६९+ ३१]
  • ↑ (४२२)
  • ↑ १। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः। जकारस्य कुत्वम्।
  • ↑ आ। ‘समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।’ धा। का। १। २४।
  • ↑ २। ‘अकर्तरि च कारके संज्ञायाम्’ (३-३-१९) इति घञ्। निष्ठायामनिट्त्वात्, ‘चजोः--’ (७-३-५२) इति कुत्वम्। भर्गः = शिवः।
  • ↑ ३। ‘ऋदुपधात्--’ (३-१-११०) इति कर्मणि क्यप्।
  • ↑ ४। “अवश्यभर्ज्यम्। ‘ण्य आवश्यके’ (७-३-६५) इति कुत्वाभावः।” इति क्षीरतरङ्गिण्यां दृश्यते। तत्र, ‘कृत्याश्च’ (३-३-१७१) इत्यनेन सूत्रेण आवश्यकार्थे कृत्यप्रत्ययस्य सामान्येन विधानेऽपि, यथासम्भवं तत्तद्धातुगतं प्रातिस्विकरूपं निमित्तमादायैव कृत्यप्रत्ययानामुत्पत्तिः। ततश्च प्रकृते, भृजीधातोरनुबन्धविनि- र्मुक्तस्य ऋकारोपधत्वात्, हलन्तलक्षणं ण्यतं बाधित्वा ऋदुपधलक्षणः क्यबेव प्राप्तः। क्यपश्च कित्त्वात् गुणवृद्धिप्रभृतीनामप्राप्तेः प्रकृतलक्ष्ये भर्ज्यम् इति गुणस्य प्राप्त्यभावात् अवश्यभृज्यम् इत्वेव आवश्यकार्थेऽपि रूपं स्यादिति युक्तमुत्प- श्यामः।



Correction: