वाचस्पत्यम्
वसती is an alternate of वसति. वसति(ती) || स्त्री वस—अति वा ङीप् । १ वासे २ यामिन्याम् “वसतीरुषित्वा” रघुः । ३ निकेतने मेदि० ४ स्थाने च ५ शिविरे सि० कौ० ।
शब्दकल्पद्रुमः
वसती || स्त्री (वसति + कृदिकारादिति ङीष् ।)
वासः । यामिनी । निकेतनम् । इति मेदिनी । ते, १५० ॥