वाचस्पत्यम्
वसन || न० वस—आच्छादने कर्मणि ल्युट् । १ वस्त्रे अमरः । भावे ल्युट् । २ छादने मेदि० वस—वासे आधारे ल्युट् । ३ निवासे ४ स्त्रीकटीभूषणे च शब्दर० ।
शब्दकल्पद्रुमः
वसनं || क्ली (वस्यते आच्छाद्यतेऽनेनेति । वस् + ल्युट् ।)
वस्त्रम् । इत्यमरः ॥ (यथा, गीत- गोविन्दे । १ । १२ । “वहसि वपुषि विशदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् । केशवधृतहलधररूप ! जय जगदीश हरे ! ॥” वसनमिति । वस् + भावे ल्युट् ।)
छादनम् । इति मेदिनी । ने, १२३ ॥ (वस + आघारे ल्युट् ।)
निवासः । (यथा, महाभारते । ५ । ४३ । ६० । “मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः । स्वलक्षणन्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥”)
स्त्रीकटीभूषणम् । इति शब्दरत्नावली ॥