शब्दकल्पद्रुमः
वसना || स्त्री (वस + युच्ं ।) स्त्रीकटीभूषणम् । यथा, — “सारसनं सारशनं वसना वशना तथा । वसनं वल्लनञ्चेति स्त्रीकटीभूषणे भवेत् ॥” इति शब्दरत्नावली ॥